|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.151. अध्यायः 151
Mahabharata - Vana Parva - Chapter Topics
भीमेन जलधिलङ्घनकलिकपृथुरूपप्रदर्शनं प्रार्थितेन हनुमता तंप्रति एतत्कालिकैस्तात्कालिकरूपस्य दुर्निरीक्षताकथनपूर्वकं कृतादियुगधऱ्मप्रतिपादनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-151-0x(2273)(21647)
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥ 3-151-1(21648)
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्।
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ॥ 3-151-2(21649)
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्।
एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ॥ 3-151-3(21650)
यत्त्वेतदासीत्प्लवतः सागरं मकरालयम्।
रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ॥ 3-151-4(21651)
एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ 3-151-5(21652)
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्।
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्।
`ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम' ॥ 3-151-6(21653)
अन्यः कृतयुगे कालश्रेतायां द्वापरे परः।
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ 3-151-7(21654)
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः।
कालं समनुवर्तन्ते यथा भावा युगेयुगे ॥ 3-151-8(21655)
`कालंकालं समासाद्य नराणां नरपुङ्गव'।
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ 3-151-9(21656)
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह।
युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥ 3-151-10(21657)
भीम उवाच। 3-151-11x(2274)
युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥ 3-151-11(21658)
हनूमानुवाच। 3-151-2x(2275)
कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ 3-151-12(21659)
न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः।
ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ 3-151-13(21660)
देवदानवगन्धर्वयक्षराक्षसपन्नगाः।
नासन्कृतयुगे तात तदा न क्रयविक्रयः ॥ 3-151-14(21661)
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी।
अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ 3-151-15(21662)
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः।
नासूया नापि रुदितं न दर्पो नापि वैकृतम् ॥ 3-151-16(21663)
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः ॥ 3-151-17(21664)
ततः परमकं ब्रह्म सा गतिर्योगिनां परा।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥ 3-151-18(21665)
ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ 3-151-19(21666)
समाश्रयं समाचारं समज्ञानं च केवलम्।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥ 3-151-20(21667)
एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ 3-151-21(21668)
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ 3-151-22(21669)
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ 3-151-23(21670)
`कामः कामयमानेषु ब्राह्मणेषु तिरोहितः'।
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ॥ 3-151-24(21671)
त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते।
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ॥ 3-151-25(21672)
सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः।
ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ॥ 3-151-26(21673)
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः।
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ॥ 3-151-27(21674)
द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥ 3-151-28(21675)
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ॥ 3-151-29(21676)
एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ 3-151-30(21677)
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः।
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥ 3-151-31(21678)
सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन्।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ॥ 3-151-32(21679)
यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥ 3-151-33(21680)
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः।
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ 3-151-34(21681)
तामसं युगमासाद्य कृष्णो भवति केशवः।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ 3-151-35(21682)
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा।
उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ॥ 3-151-36(21683)
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥ 3-151-37(21684)
लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥ 3-151-38(21685)
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ 3-151-39(21686)
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम।
अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ 3-151-40(21687)
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥ 3-151-41(21688)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-151-3 एकं तु कृतमिच्छामीति ध. पाठः ॥ 3-151-5 हरिर्वानरः ॥ 3-151-9 वर्ष्म शरीरम् ॥ 3-151-11 भावान् तत्त्वानि। कर्म शुभाशुभम्। वीर्यं फलोदयपर्यन्तं शक्तिः। भवाभवावुत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ॥ 3-151-12 कृतमेव सर्वे कृतकृत्या एवेत्यर्थः। ततएव हेतोः कृतयुगं नाम ॥ 3-151-15 त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं स्वभावसिद्धत्वान्न सामादीन्यासन्। मानवीक्रिया कृष्याद्यारम्भरूपा। किंतु अभिध्याय फलं संकल्पादेव सर्वं संपद्यत इत्यर्थः ॥ 3-151-16 वैकृतं कपटम् ॥ 3-151-17 विग्रहो वैरम्। तन्द्री आलस्यम्। ईर्ष्या अक्षमा। मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-151-18 ततोऽसूयादित्यागात् परमकं परमानन्दात्मकं ब्रह्म प्राप्यत इति शेषः। गतिः प्राप्यम्। श्वेतरक्तपीतकृष्णरूपाणि क्रमेण कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ॥ 3-151-33 यैः व्याधिभिः कामैश्च ॥ 3-151-35 तामसं तमोगुणप्रधानं कलिम् ॥ 3-151-36 ईतयः अतिवृष्ट्यादयः ॥ 3-151-37 व्यावर्तते नश्यति ॥ 3-151-38 भावाः धर्मज्ञानादयः। प्रार्थनानि विकुर्वते। अन्यत्प्रार्थ्यतेऽन्यत् जायते। पौष्टिकमपि कर्म विधिलोपान्नाशकं भवतीति भावः ॥ 3-151-39 चिरजीविनो मादृशा अपि युगानुवर्तिनः कालानुसारिणो भवन्ति ॥ 3-151-40 अनर्थकेषु निष्प्रयोजनेषु। भावोऽभिनिवेशः ॥ 3-151-41 स्वस्ति कल्याणम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|